क्रिकेट-क्रीडनम एवं दीपावलिः पर निबंध संस्कृत में- Cricket Avn Dipawali Per Nibandh Sanskrit Mein

क्रिकेट-क्रीडनम एवं दीपावलिः पर निबंध संस्कृत में- Cricket Avn Dipawali Per Nibandh Sanskrit Mein

यह पर आपको क्रिकेट-क्रीडनम एवं दीपावलिः पर निबंध दिया गया है|

प्रिय छात्र ! यह आपको पैराग्राफ में  क्रिकेट-क्रीडनम एवं  दीपावलिः पर निबंध दिया गया है| अगर क्रिकेट-क्रीडनम के स्थान परभारतीय क्रीडा एवं दीपावलिः के स्थान पर दीपमालिका, दीपोत्सव दिया गया हो तो, आप इसे ही लिख सकते है| Essay In Sanskrit

Chapter Name क्रिकेट-क्रीडनम एवं दीपावलिः पर निबंध
Part 3 Sanskrit Vyakaran
Board Name UP Board (UPMSP)
Topic Name क्रिकेट-क्रीडनम एवं दीपावलिः पर निबंध संस्कृत में

क्रिकेटक्रीडनम (Cricket )

अस्माकं देशे सम्प्रति बहुविधानि क्रीडनानि प्रचलितानि सन्ति । तेषु क्रिकेट क्रीडनम् अति लोकप्रियं मनोरञ्जकं च अस्ति। इदं क्रीडनं विश्वस्य कतिपयेषु देशेषु क्रीड्यते। प्रायः प्रतिवर्षम् अन्तर्राष्ट्रीय क्रिकेट स्पर्द्धाश्च आयोज्यन्ते। अस्मिन् क्रीडने द्वे दले भवतः । एकस्मिन् दले एकादश क्रीडकाः भवन्ति । एकं दलं कन्दुकं लक्ष्ये प्रक्षिपति अपरञ्च कन्दुकं दण्डेन (बल्ले से) प्रहरति । यस्य दलस्य धावनानि (रन) अधिकानि भवन्ति तद् दलं विजयी भवति । अतः स्वास्थ्य-विकासाय अन्तर्राष्ट्रिय सम्बन्धविकासाय च अस्माभिः प्रयत्नः कर्त्तव्यः।

क्रिकेट क्रीडनम् स्वास्थ्याय हितकरं भवति। क्रिकेट क्रीडनेन शरीरं स्वस्थं स्फूर्तियुक्तं च भवति । इदानीं राष्ट्राणां मध्ये क्रिकेटस्पर्द्धा पारस्परिक मैत्री-सम्बन्ध-स्थापने सम्पर्कसूत्रतां गता। एतेन परस्परं स्पर्द्धा सहयोगभावना च वर्धते ।

 

दीपावलिः, दीपमालिका (Dipawali )

अस्माकं देशे अनेकाः उत्सवाः भवन्ति । तेषु दीपावली एकः महत्त्वपूर्णः उत्सवः अस्ति । अयं उत्सवः कार्तिकमासस्य अमावस्यायां तिथौ भवति । अस्मिन् उत्सवे जनाः स्व-स्व गृहाणि स्वच्छानि कुर्वन्ति । अस्मिन् रात्रौ लक्ष्मीगणेशयोः पूजनं भवति । अस्मिन् दिने श्रीरामचन्द्रः रावणं हत्वा लक्ष्मणेन सीतया सह अयोध्यां प्रत्यागतः। अतएव अयोध्यावासिनः दीपानां मालया तेषां सोल्लासं स्वागतमकुर्वन् । अद्यापि प्रतिवर्षे गृहे-गृहे दीपाः पंक्तिबद्धाः प्रज्वाल्यन्ते। गृहे गृहे पक्वान्नानि भवन्ति । जनाः मित्राणां सम्बन्धिनां गृहेषु मिष्टान्नानि वितरन्ति । बालकाः पक्वान्नानि मिष्टान्नानि च खादन्ति प्रसन्नं च भवन्ति । अयं भारतस्य दीपकानाम् उत्सवः अस्ति। अयं उत्सवः सम्पूर्ण राष्ट्र एकतायाः सूत्रे बध्नाति ।

भवनानि प्रकाशन्ते सर्वत्र दीपपङ्क्तिभिः

दिवा इव निशा भाति धन्यासि दीपमालिके

 

वनसम्पत् (वनस्य महत्त्वम्) एवं राष्ट्रपक्षी मयूरः पर निबंध संस्कृत में

 

error: Copyright Content !!
Scroll to Top