हिमालयः एवं संस्कृतभाषायाः महत्त्वम् पर निबंध संस्कृत में – Himalaya Avn Sanskritibhashaya Mahatva Per Nibandh Sanskrit Mein

हिमालयः एवं संस्कृतभाषायाः महत्त्वम् पर निबंध संस्कृत में – Himalaya Avn Sanskritibhashaya Mahatva Per Nibandh Sanskrit Mein

यह पर आपको हिमालयः एवं संस्कृतभाषायाः महत्त्वम् पर निबंध दिया गया है|

प्रिय छात्र ! यह आपको 10 वाक्यों में और पैराग्राफ में हिमालयः एवं संस्कृतभाषायाः महत्त्वम् पर निबंध दिया गया है| अगर मातृभूमिः (अस्माकं देशः) के स्थान पर  संस्कृतस्य उपयोगिता,संस्कृत नाम देवी वाक्,संस्कृतभाषायाः गौरवम्,सुरभारती,देववाणी,संस्कृत भाषायाः गौरवम्,संस्कृत वाङ्गमयम् दिया गया हो तो, आप इसे ही लिख सकते है| Essay In Sanskrit

Chapter Name हिमालयः एवं संस्कृतभाषायाः महत्त्वम् पर निबंध
Part 3 Sanskrit Vyakaran
Board Name UP Board (UPMSP)
Topic Name हिमालयः एवं संस्कृतभाषायाः महत्त्वम् पर निबंध संस्कृत में

1.हिमालयः(Himalaya)

 भारतवर्षस्य उत्तरस्यां दिशि प्रहरी इव स्थितः उच्चतमः पर्वतः हिमालयः अस्ति। अस्य शिखराणि सदैव हिमेत आच्छादितानि तिष्ठन्ति, अतएव अयं हिमस्य आलयः ‘हिमालयः’ इति कथ्यते। अयं सर्वेषां पर्वतानाम् उच्चतमः अस्ति, अतः ‘पर्वतराजः’ अपि कथ्यते। हिमालयः विश्वस्य विशालतमः पर्वतः अस्ति। अस्य पर्वतस्य कन्दरासु तपः कुर्वन्तः मुनयः परां सिद्धि प्राप्नुवन्ति । अस्य समुन्नतेषु भागेषु मनोहराणि वनानि सन्ति। महाकविः कालिदासः कुमारसम्भवमहाकाव्ये अस्य वर्णनम् अकरोत्-

अस्त्युत्तरस्यां दिशि देवतात्मा, हिमालयो नाम नगाधिराजः

पूर्वापरौ तोयनिधी वगाह्य, स्थितः पृथिव्या इव मानदण्डः

 ‘एवरेस्टः’ इति अस्य उच्चतमं शिखरम् अस्ति। वर्षारम्भे हिमालयः वृष्टिकारकं मानसूनाख्यं वायुमवरुध्य देशे वर्षणाय प्रेरयति, येन भूमिः शस्यश्यामला जायते, राष्ट्र च धनधान्यपूर्ण भवति ।

एवं हिमालयः अस्माकं संस्कृतेः, समृद्धेः वन-सम्पदश्च आधारः । अतः देशवासिभिः भृशं स्तूयते पूज्यते च ।

हिमालयः पर निबंध 10 वाक्यों में

हिमालयः

 (1) हिमालयः पर्वतराजः कथ्यते।

(2) अयं भारतस्य उत्तरस्यां दिशि शोभते ।

(3) विश्वस्य सर्वेषां पर्वतानाम् अयम् उच्चतमः पर्वतः अस्ति।

(4) अस्य बहूनि शिखराणि अत्युन्नतानि सन्ति ।

(5) अत्र सदैव हिम तिष्ठति अतएव अयं हिमालयः उच्यते।

(6) अस्य समुन्नतेषु भागेषु अनेकानि वनानि सन्ति।

(7) अस्य प्रान्तरे अनेकानि तीर्थस्थानानि सन्ति।

(8) हिमालयः देवभूमिः, पुण्यभूमिः, तपोभूमिः च कथ्यते।

(9) हिमालयः सदैव भारतभुवं सुप्रहरीव सुरक्षति।

(10) हिमालयः महाकविना कालिदासेन बहुवर्णितः अस्ति।

 

संस्कृतभाषायाः महत्त्वम् पर निबंध संस्कृत में

 

2.संस्कृतभाषायाः महत्त्वम्(Sanskritibhashaya Mahatva)

        अथवा, संस्कृतस्य उपयोगिता

   अथवा, संस्कृत नाम देवी वाक्

    अथवा, संस्कृतभाषायाः गौरवम्

          अथवा, सुरभारती

 संस्कृत भाषा संसारस्य प्राचीनतमा मुख्या भाषा अस्ति। व्याकरणादिदोषरहिताभाषा संस्कृतभाषेति कथ्यते । सैव देवभाषा, देववाणी, गीर्वाणवाणी इत्यादिभिः नामधेयैः व्यवहृयते। संस्कृत साहित्यम् अति विशालम् अस्ति। अस्मिन् खण्डकाव्यं, महाकाव्यं, दूतकाव्यं, नाटकं, दर्शनम्, ज्योतिरायुर्वेदादयः सर्वेऽपि विद्यन्ते। बाणवाल्मीकि-हर्षकालिदासाश्वघोषादयः अस्य श्रेष्ठाः कवयः सन्ति। संस्कृतदर्शनशास्त्रम् अद्यापि जगति अद्वितीयं वर्तते ।

अस्याः भाषायाः व्याकरणम् अद्वितीयम् अस्ति। विश्व प्रसिद्धः पाणिनिकृत व्याकरणग्रन्थः अस्यामेव भाषायाम् अस्ति। पुरा सर्वे जनाः संस्कृत भाषायाम् एव वदन्ति स्म; अतः समग्रमपि प्राचीनसाहित्यं संस्कृत भाषायामेव लिखितम् अस्ति। ग्रन्थाः संस्कृत भाषायां सन्ति। संस्कृतसाहित्यस्याध्ययनेन सद्विचाराः स्वयमेव उत्पद्यन्ते। संस्कृत भाषा सूक्तीनां रत्नाकरः ।

संस्कृतभाषा सम्पूर्ण भारते समानरूपेण अङ्गीकृता आदृता च अस्ति। अतः राष्ट्रियैक्यसंस्थापनाय अद्भुतं सामर्थ्यम् आवहति । एतादृश्याः समृद्धायाः मातृभूतायाः संस्कृतभाषायाः संवर्द्धनाय अस्माभिः सर्वविधः प्रयासः कर्त्तव्यः । उक्तं च केनचित् कविना संस्कृतभाषायाः महत्त्वम् –

संस्कृते पदलालित्यं संस्कृते चार्थगौरवम्

संस्कृते सकलं ज्ञानं संस्कृते किं विद्यते

संस्कृतभाषायाः महत्त्वम् पर निबंध 10 वाक्यों में

 

संस्कृतभाषायाः महत्त्वम्

         अथवा देववाणी

       अथवा संस्कृत भाषायाः गौरवम्

        अथवा सुरभारती

        अथवा संस्कृत वाङ्गमयम्

       अथवा संस्कृत नाम देवी वाक्

 

(1) संस्कृतभाषा अन्यासां भारतीयभाषानां जननी अस्ति।

(2) इयं भाषा विश्वस्य प्राचीनतमा भाषा अस्ति।

(3) संस्कृतभाषा भारतस्य प्राणभूता भाषा अस्ति ।

(4) इयमेव भाषा समस्तं भारतम् एकसूत्रे बध्नाति।

(5) अस्याः साहित्यं व्याकरणं च पूर्णतः समृद्धे स्तः।

(6) अस्यामेव भाषायां निबद्धाः सन्ति चत्वारः वेदाः दर्शनशास्त्राणि च।

(7) संस्कृतभाषा सरला, मधुरा, सुपरिष्कृता च अस्ति।

(8) संस्कृतभाषा-महत्त्वं विदेशीयाः विद्वांसः अपि स्वीकुर्वन्ति ।

(9) वाल्मीकिः, व्यासः, कालिदासः अन्ये चापि अनेके प्रसिद्धाः कवयः संस्कृतस्य श्रीवृद्धिम् अकुर्वन् ।

(10) अस्याः सम्वर्धनाय वयं प्रयत्नशीलाः भवेम।

 

अहिंसा परमो धर्मः एवं मातृभूमिः (अस्माकं देशः) पर निबंध संस्कृत में

 

error: Copyright Content !!
Scroll to Top