अहिंसा परमो धर्मः एवं मातृभूमिः (अस्माकं देशः) पर निबंध संस्कृत में – Ahinsa Parmo Dharma Avn Matrbhumi Per Nibandh Sanskrit Mein

अहिंसा परमो धर्मः एवं मातृभूमिः (अस्माकं देशः) पर निबंध संस्कृत में – Ahinsa Parmo Dharma Avn Matrbhumi Per Nibandh Sanskrit Mein

यह पर आपको अहिंसा परमो धर्मः एवं मातृभूमिः (अस्माकं देशः) पर निबंध दिया गया है |

प्रिय पाठक! यह आपको 10 वाक्यों में और पैराग्राफ में अहिंसा परमो धर्मः एवं मातृभूमिः (अस्माकं देशः) पर निबंध दिया गया है| अगर मातृभूमिः (अस्माकं देशः) के स्थान पर  भारतवर्षः, जन्माभ्भूमिः, अस्माकम् जन्मभूमिः दिया गया हो तो, आप इसे ही लिख सकते है| Essay In Sanskrit

Chapter Name अहिंसा परमो धर्मः एवं मातृभूमिः (अस्माकं देशः)  पर निबंध
Part 3 Sanskrit Vyakaran
Board Name UP Board (UPMSP)
Topic Name अहिंसा परमो धर्मः एवं मातृभूमिः (अस्माकं देशः) पर निबंध संस्कृत में

(1) अहिंसा परमो धर्मः (Ahinsa Parmo Dharma)

परेषां हिंसनं, पीडनम् एष हिंसा भवति, एतद् विपरीता भावना अहिंसा भवति। मनसा, वाचा, कर्मणा, कथमपि, कस्यचित् कष्टं न देयमित्येवाहिंसा। भारतवर्षे बहवः धर्माः सन्ति । तेषु सर्वेषु धर्मेषु अहिंसायाः महत्त्वपूर्ण स्थानम् अस्ति। अस्मिन् संसारे कोऽिप धर्मः एतादृशः न अस्ति, यस्मिन् अहिंसायाः महत्त्वं न स्वीक्रीयते । ‘अहिंसा परमो धर्मः’ इति सर्वाणि शास्त्राणि कथयन्ति। मनुना मनुस्मृतौ निर्दिष्टेषु धर्मस्य दशलक्षणेषु अहिंसायाः सर्वप्रथमः उल्लेखः अस्ति।

अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः

धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्

अहिंसा एकं परमं तपः अस्ति। भारतीयधर्मस्य संस्कृते च मूलाधारः अहिंसा एव अस्ति। बौद्धजैनधर्मस्य च मूलम् अहिंसा एव विद्यते। अहिंसया सर्वत्रं शान्तिः प्रसरति शान्त्या च सर्वे जनाः सुखिनः भवन्ति । अतः सर्वैः अहिंसायाः पालनम् अवश्यं करणीयम् ।

 

अहिंसा परमो धर्मः पर निबंध 10 वाक्यों में

 

अहिंसा परमो धर्मः

(1) जीवस्य हिंसनं, पीडनं, दुःखदानम् वा ‘हिंसा’ इति कथ्यते।

(2) हिंसायाः अभावः एव अहिंसा भवति।

(3) मनसा-वाचा-कर्मणा वा केनापि रूपेण दुःखदानं न करणीयम्।

(4) अहिंसा परमो धर्मः वर्तते।

(5) अहिंसाधर्म एव मनुष्यस्य प्रथमः धर्मः अस्ति।

(6) हिंसा न केवलं कर्मणा एव अपितु वाचा मनसापि च भवति।

(7) अस्य महत्त्वं सर्वे धर्माः स्वीकुर्वन्ति ।

(8) अहिंसया एव संसारस्य स्थितिः अस्ति।

(9) अहिंसया किं किं न सिद्ध्यति, वक्तुं न शक्यते।

(10) मानवैः सर्वथा सर्वदा सर्वभावेन अहिंसाव्रतमाचरणीयम्।

 

मातृभूमिः (अस्माकं देशः) पर निबंध संस्कृत में

(2) मातृभूमिः (अस्माकं देशः) (Matrbhumi )

अथवा  भारतवर्षः

 

अस्माकं भारतदेशः विश्वस्य एकः महानः देशः अस्ति। भारतभूमिः अस्माकं मातृभूमिः। यथा उक्तम्-‘माता भूमिः, पुत्रोऽहं पृथिव्याः’ इति । जन्मभूमिः अस्माकं जननी अस्ति। यतो हि अस्याः एव क्रोडे क्रीडित्वा वयम् स्वशैशवम् अतिक्रम्य यौवनम् प्राप्ताः । इयं मातृभूमिः स्वर्गात् अपि श्रेष्ठा। यत्र वयं सुखेन वसामः, विविधान् भोगान् च अनुभवामः ।

अस्माकं मातृभूमिः सुफला, सुजला, शस्य श्यामला अस्ति। सागरः अस्याः चरणौ प्रक्षालयति। हिमालयः अस्याः शुभ्रं किरीटम्, विन्ध्याद्रिः अस्याः कटिः । विविधः नद्यः अमृततुल्येन जलेन इमां सिञ्चन्ति। सूर्यः प्रतिदिनं प्रातः इमां प्रणमति, खगाश्च कलस्वनैः इमां स्तुवन्ति। देवाः अपि अस्य महत्त्वं गायन्ति-

गायन्ति देवाः किल गीतकानि धन्यास्तु ये भारतभूमि भागे।

स्वर्गापवर्गास्पद मार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात्

 

 अस्माकं देशः (मातृभूमिः) पर निबंध 10 वाक्यों में

 

 अस्माकं देशः (मातृभूमिः)

        अथवा (भारतवर्षः )

अथवा जन्माभ्भूमिः

 अथवा अस्माकम् जन्मभूमिः

 

(1) माता मातृभूमिः च एते द्वे एव संसारे श्रेष्ठे।

(2) भारतम् अस्माकं देशः मातृभूमिः च अस्ति।

(3) मातुः बालकं प्रति स्वाभाविक प्रेमं भवति ।

(4) अतः बालकस्य कर्त्तव्यम् अस्ति यत् स्वभारत-मातरं च वन्दनां कुर्यात्।

(5) भारतदेशस्य संस्कृतिः विश्वस्य प्राचीनतमा संस्कृतिः अस्ति।

(6) जन्मभूमिः अस्माकं जननी अस्ति।

(7) अतः जन्मभूमिः (मातृभूमिः) सर्वथा पूज्या रक्षणीया च भवति।

(8) देशं प्रति भक्ति भावना देशोन्नत्याः मूलकारणम् अस्ति।

(9) अतः देशभक्तिभावना हि भव्या।

(10) मातृभूमिः स्वर्गाद् अपि श्रेष्ठः भवति।

 

परोपकारः एवं सत्सङ्गतिः पर निबंध संस्कृत में

error: Copyright Content !!
Scroll to Top