तीर्थराज प्रयागः एवं वसुधैव कुटुम्बकम् पर निबंध संस्कृत में – Tirthraj Prayag Avm Vasudhaiva Kutumbkam Per Nibandh Sanskrit Mein

तीर्थराज प्रयागः एवं वसुधैव कुटुम्बकम् पर निबंध संस्कृत में- Tirthraj Prayag Avm Vasudhaiva Kutumbkam Per Nibandh Sanskrit Mein

यह पर आपको तीर्थराज प्रयागः एवं वसुधैव कुटुम्बकम् पर निबंध दिया गया है|

प्रिय छात्र ! यह आपको पैराग्राफ में तीर्थराज प्रयागः एवं वसुधैव कुटुम्बकम् पर निबंध दिया गया है| अगर तीर्थराज प्रयागः के स्थान पर प्रयागवर्णनम्, महाकुम्भ प्रयागवर्णनम्, प्रयागनगरम् दिया गया हो तो, आप इसे ही लिख सकते है| Essay In Sanskrit

Chapter Name तीर्थराज प्रयागः एवं वसुधैव कुटुम्बकम् पर निबंध
Part 3 Sanskrit Vyakaran
Board Name UP Board (UPMSP)
Topic Name तीर्थराज प्रयागः एवं वसुधैव कुटुम्बकम् पर निबंध संस्कृत में

तीर्थराज प्रयागः (Tirthraj Prayag)

अथवा  प्रयागवर्णनम्

भारते बहूनि तीर्थानि सन्ति। तीर्थानां राजा प्रयागराजः उत्तर प्रदेशस्य प्रयागनगरे स्थितः अस्ति। अस्मिन् तीरे गङ्गा-यमुना-सरस्वती इति तिस्रः नद्यः सम्मिलन्ति। आसां नदीनां पवित्रे संगमे असंख्याः जनाः प्रतिवर्षं स्नानं कुर्वन्ति पुण्यं च अर्जयन्ति ।

सितासिते यत्र तरङ्ग चामरे नद्यौ विभाते मुनिभानुकन्यके।

नीलात् पत्रं वट एवं साक्षात् तीर्थराजो जयति प्रयागः॥

प्रयागे महामुने भगवतो भरद्वाजस्य आश्रमपदं राजते। गङ्गायाः पावने तटे एकं दर्शनीयं हनुमन्मन्दिरमपि विद्यते । अत्रैको अक्षयवटवृक्षो वर्तते, यस्य दर्शनार्थ सहस्रशो नरनार्यश्च प्रतिवर्ष समायान्ति ।

प्रयागराजस्य महत्त्वम् अतिप्राचीनम्। पुरा अत्र अनेके अश्वमेधादयः यज्ञाः सम्पन्नाः अतो हि अयं प्रयागराजः। प्रति द्वादशवर्षम् अत्र कुम्भपर्व भवति। अस्मिन् महापर्वणि देशस्य सकलेभ्यः भागेभ्यः असंख्याः तीर्थयात्रिणः स्नानार्थम् आगच्छन्ति। अत्र पवित्रसंगमे स्नात्वा महात्मनां विदुषां च उपदेशं श्रुत्वा तनुमनोभ्याम् आत्मनः पावयन्ति ।

प्रयागे विविधविद्याकेन्द्रम् प्रयागविश्वविद्यालयः अस्ति। यत्र सुदूरेभ्यः अञ्चलेभ्यः सहस्त्रशः विद्यार्थिनः विद्याध्ययनाय आगच्छन्ति ज्ञानम् अवाप्य च राष्ट्रस्य गौरवं वर्द्धयन्ति ।

 

वसुधैव कुटुम्बकम् ( Vasudhaiva Kutumbkam)

विश्वस्य स्रष्टा ईश्वरः एकः एव अस्ति। सर्वे प्राणिनः च तस्य तनयाः सन्ति । अतः विश्वस्य सर्वेषु भागेषु स्थिताः जनाः रूप-वर्ण-भाषा-संस्कृति-भेदान् धारयन्तः अपि अभिन्नाः एव। यतो हि सर्वेषां मूलप्रवृत्तयः समानाः एव। यथा एकः जनः सम्माने सुखम् अपमाने च दुःखम् अनुभवति तथैव अन्येऽपि। अतः श्रेष्ठः जनः सः एव यः सर्वेषु प्राणिषु समानं व्यवहारं करोति, सर्वेषु स्निह्यति, ने कमपि पीडयति । अद्य तु विज्ञानस्य प्रभावेण देशकालयोः अन्तरः प्रायः समाप्ति गतः। भारते स्थितः जनः विदेशेषु स्थितानां जनानां समाचारं प्रतिदिनं प्राप्नोति दूरभाषेण च वार्ताम् करोति । दूरदर्शनेन तु सर्वं विश्वं करतलस्थितमेव जातम् । एतस्य सहयोगेन कुत्रचिदपि घटितां घटनां क्षणादेव वयं ज्ञातुं समर्थाः भवामः।

अतः उपर्युक्तस्थितौ विश्वबन्धुत्वस्य भावनायाः महतीं.आवश्यकता अस्ति । अतः महर्षिभिः उक्तम्-

उदारचरितानां तु वसुधैव कुटुम्बकम्

 

राष्ट्रियैकता (राष्ट्रीय एकता) एवं भारतीय कृषकः पर निबंध संस्कृत में

 

error: Copyright Content !!
Scroll to Top