विद्या (विद्यायाः महत्त्वम्) एवं सदाचारः पर निबंध संस्कृत में – Vidyaya Mahttam Avm Sadachar Per Nibandh Sanskrit Mein

विद्या (विद्यायाः महत्त्वम्) एवं सदाचारः पर निबंध संस्कृत में Vidyaya Mahttam Avm Sadachar Per Nibandh Sanskrit Mein

यह पर आपको विद्यायाः महत्त्वम् एवं सदाचारः पर निबंध दिया गया है |

प्रिय पाठक यह आपको 10 वाक्यों में और पैराग्राफ में  विद्यायाः महत्त्वम् एवं सदाचारः पर निबंध दिया गया है | अगर विद्यायाः महत्त्वम् के स्थान पर विद्या धर्मेण शोभते, विद्या ददाति विनयम्, विद्याधनं सर्वधनं प्रधानम्, विद्या महिमा, विद्यायाः महत्त्वम्, विद्या धर्मेण शोभते, विद्या ददाति विनयम्, शिक्षायाः उपयोगितां, शिक्षायाः महत्त्वम्, विद्याविहीनः पशुः, विद्या (विद्यायाः महत्त्वम्), विद्या ज्ञानाय एवं सदाचारः के स्थान पर सदाचारवान्नरः, सदाचारः या आचारः परमो धर्मः, यः सदाचारवान्नरः, चरित्रसमस्या या कदाचार समस्या दिया गया हो तो, आप इसे ही लिख सकते है| Essay In Sanskrit

Chapter Name विद्या (विद्यायाः महत्त्वम्) एवं सदाचारः पर निबंध 
Part 3 Sanskrit Vyakaran
Board Name UP Board (UPMSP)
Topic Name विद्या (विद्यायाः महत्त्वम्) एवं सदाचारः पर निबंध संस्कृत में

1. विद्या (विद्यायाः महत्त्वम्) (Vidyaya Mahttam)

अथवा, विद्या धर्मेण शोभते

अथवा, विद्या ददाति विनयम् 

अस्मिन् संसारे विद्या एव सर्वप्रधानं धनम् अस्ति। विद्याधनं चौरोऽिप चोरयितुं न शक्नोति । नृपः अपहर्तुं नशक्नोति। अन्यधनं भ्राता विभज्यते, किन्तु विद्याधनं भ्राता न विभज्यते। धनं दानेन अपक्षीयते, किन्तु विद्या दानेन वर्धते । उक्तम् च –

चौरहार्यं राजहार्यं, भ्रातृभाज्यं भारकारि।

व्ययेकृते वर्धत एवं नित्यं, विद्या धनं सर्वधनं प्रधानम्

        विद्याः बहुविधाः भवन्ति, यथा साहित्यं, संगीतं, कला, विज्ञानम् इति । विद्या तु निरन्तरम् अभ्यासेन परिश्रमेण वा प्राप्तुं शक्यते। विद्यया मानवस्य बुद्धि विकासः भवति । विद्या विनयं ददाति । विद्यायाः कोषः अद्वितीयः भवति ।

       साम्प्रतं सर्वत्र शस्त्राणां स्पर्द्धा वर्द्धते, यया मानवजीवनं संकटापन्नं विनाशोन्मुखं च भवति। अतः ज्ञानस्य उपयोगः मानवकल्याणाय एव भवेत्, एतदर्थम् गम्भीरतया विवेचनीयम्।

       विद्यया मनुष्यस्य सम्मानं भवति। विद्वान् मनुष्यः सर्वत्र सम्मानं लभते । विद्याबलेनैव महर्षयः अमृता भवन्ति अमर पदवीं वा प्राप्नुवन्ति । उक्तं च – विद्ययाऽमृतमश्नुते। सा विद्या या विमुक्तये।

 

 विद्यायाः महत्त्वम् पर निबंध 10 वाक्यों में

विद्याधनम् अथवा विद्याधनं सर्वधनं प्रधानम्

अथवा विद्या महिमा

अथवा विद्यायाः महत्त्वम्

अथवा विद्या धर्मेण शोभते

अथवा विद्या ददाति विनयम्

अथवा शिक्षायाः उपयोगितां।

अथवा शिक्षायाः महत्त्वम्।

अथवा विद्याविहीनः पशुः

अथवा विद्या (विद्यायाः महत्त्वम्)

अथवा विद्या ज्ञानाय

(1) विद्यायाः महत्त्वम् अपरिमितं विद्यते।

(2) अनया एव मानवः जगत्पूज्यः भवति।

(3) अनया विना तु पुरुषः साक्षात्पशुः भवति।

(4) अतएव विद्या प्रयत्नैः गृहीतव्यम्।

(5) विद्याधनं सर्वधनेषु प्रधानमस्ति ।

(6) यतः विद्याधनं चौरं चोरयितुं न शक्नोति ।

(7) राजा अपि तं अपहर्तुं न शक्नोति ।

(8) भ्राता एतस्य धनस्य विभाजनं कर्तुं न शक्नोति ।

(9) इदं धनं व्यये कृते तु नित्यमेव वर्धते।

(10) अतएव विद्या सर्वधनं प्रधानम् अस्ति।

 

सदाचारः पर निबंध संस्कृत में

(2) सदाचारः(Sadachar)

अथवा सदाचारवान्नरः

      सताम् आचारः सदाचारः कथ्यते। सज्जनाः यद् आचरन्ति तदेव आचरणं सदाचारः कथ्यते। सदाचारणम् एकः अलौकिकं गुणः अस्ति। समाजे सदाचारस्य व्यवहरणम् अनिवार्यम् अस्ति। सदाचारः मानवस्य अलौकिकं विभूषणम्। मूर्खाणाम् एव जीवनं सदाचारविहीनम् भवति।

      सदाचारी सर्वैः सह शिष्टतापूर्वकम् आचरन्ति । यः सत्यं वदति, नित्यं पितरौ अभिवादयति, गुरुजनानाम् आदरं करोति, परोपकारं च करोति तस्य आयुः विद्यादि वर्धन्ते ।

      सदाचारस्य महत्त्वं सर्वेषु धर्मेषु समानरूपेण स्वीकृतम् अस्ति। अतः मानवतायाः विकासाय सर्वैः सदाचारः प्रयत्नपूर्वकं पालनीयः रक्षणीयश्च ।

आचारः परमो धर्मः आचारः परमं तपः।

आचारः परमं ज्ञानमाचारात् किं साध्यते ।।

 

सदाचारः पर निबंध 10 वाक्यों में

 सदाचारः या आचारः परमो धर्मः

अथवा यः सदाचारवान्नरः

अथवा चरित्रसमस्या या कदाचार समस्या

 (1) सज्जनानाम् आचारः एव सदाचारः भवति।

(2) सज्जनाः यथैव आचरन्ति व्यवहरन्ति वा सः एव ‘सदाचारः’ भवति ।

(3) सदाचरणम् एकः अलौकिकः गुणः अस्ति।

(4) सदाचारः मानवस्य अलौकिकं विभूषणम्।

(5) सदाचारस्य महत्त्वं सर्वेषु धर्मेषु स्वीकृतम् अस्ति।

(6) मानवस्य उन्नत्यै सदाचारस्य महती आवश्यकता वर्तते ।

(7) समाजे सदाचारस्य व्यवहरणम् अनिवार्यम् अस्ति।

(8) सः एव समाजः सम्पन्नः भवति यत्र सदाचारिणः भवन्ति।

(9) मूर्खाणाम् एव जीवनं सदाचारविहीनं भवति ।

(10) अस्माभिः सदाचारः प्रयत्नपूर्वकं पालनीयः रक्षणीयश्च ।

error: Copyright Content !!
Scroll to Top