परोपकारः एवं सत्सङ्गतिःपर निबंध संस्कृत में – Paropkar Avm Sangati Per Nibandh Sanskrit Mein
यह पर आपको परोपकारः एवं सत्सङ्गतिः पर निबंध दिया गया है |
प्रिय पाठक! यह आपको 10 वाक्यों में और पैराग्राफ में परोपकारः एवं सत्सङ्गतिः पर निबंध दिया गया है| अगर परोपकारः के स्थान पर परोपकारः पुण्याय, परोपकाराय सतां विभूतयः, परोपकारः पुण्याय एवं सत्सङ्गतिः के स्थान पर सत्संगतिः कथय किम् न करोति पुंसाम् दिया गया हो तो, आप इसे ही लिख सकते है| Essay In Sanskrit
Chapter Name | परोपकारः एवं सत्सङ्गतिः पर निबंध |
Part 3 | Sanskrit Vyakaran |
Board Name | UP Board (UPMSP) |
Topic Name | परोपकारः एवं सत्सङ्गतिः पर निबंध संस्कृत में |
1. परोपकारः(Paropkar)
अथवा परोपकारः पुण्याय
परेषाम् उपकारः परोपकारः कथ्यते । स्वार्थं परित्यज्य अन्येषां कल्याणेच्छया यत् किञ्चित् क्रियते तत् परोपकारः कथ्यते। परोपकारः मानवस्य एकः उत्तमः गुणः अस्ति। परोपकारेण जनेषु सुखशान्ति वृद्धिः भवति। परोपकारिणः जनाः परोपकारेणैव प्रसन्नाः भवन्ति । परोपकारस्य भावना मानवेषु एव न, देवेषु, पशुपक्षिवृसादिषु अपि च भवति ।
महात्मा दधीचिः परोपकाराय एव स्वशरीरस्य अस्थीनि अपि ददौ प्राणांश्च अत्यजत् । गौतमबुद्धः प्राणिनां दुःखविनाशाय एव सर्वभोगायतनं राजप्रासादं परित्यज्य महता कष्टेन तपः अकरोत् बुद्धत्वं च प्राप्नोत् । महात्मा ख्रीष्टः दयालुः मुहम्मदः च जनानां दुःखविनाशाय एव स्वजीवने अपारं कष्टं सोढवन्तौ । राष्ट्रपिता महात्मा गान्धि राष्ट्रस्य स्वतन्त्रतायै एव बहुवारं कारागारम् असेवत अवर्णनीयानि कष्टानि च असहत।
न केवलं मनुष्याः अपितु प्रकृतिः अपि परोपकारे रता दृश्यते । नद्यः स्वयमेव जलं न पिबन्ति, वृक्षाः स्वयं फलानि न खादन्ति, किन्तु तासां जलं, तेषाम् फलानि च परोपकाराय एव भवन्ति । अतः अस्माभिः अपि संदा परोपकारः करणीयः। परोपकार एवं परम पुरुषार्थ:-‘धन्या नरा विहितकर्मपरोपकाराः ।‘
अतः धिक् तस्य मानव्रस्य जीवनं यः परोपकारं न करोति । पशवः मृत्योः परमपि स्वचर्म परार्थ- मुत्सृज्योपकुर्वन्ति –
परोपकारशून्यस्य धिङ्मनुष्यस्य जीवितम् ।
जीवन्तु पशवो येषां चर्माप्युपकरिष्यति ॥
परोपकारः पर निबंध 10 वाक्यों में
परोपकारः
अथवा परोपकाराय सतां विभूतयः
अथवा परोपकारः पुण्याय
(1) परेषामुपकारः परोपकारः भवति।
(2) सत्पुरुषाः सदैव परेषामुपकारं कुर्वन्ति।
(3) ये परेषाम् उपकारं कुर्वन्ति परे तेषाम् उपकारं कुर्वन्ति।
(4) एव परोपकारिणां सदैव कल्याणं भवति।
(5) नद्यः परेभ्यः जलं वहन्ति । वृक्षाः परेभ्यः फलानि धारयन्ति।
(6) मेघाः परेभ्यो जलानि वर्षन्ति ।
(7) एवमेव सतां विभूतयः परोपकाराय भवन्ति।
(8) महात्मा दधीचिः परोपकाराय एव स्वशरीरस्य अस्थीनि अपि ददौ प्राणांश्च अत्यजत् ।
(9) गौतम बुद्धः प्राणिनां दुःखविनाशाय एव सर्वभोगयतनं राजप्रासादं परित्यज्य महता कष्टेन तपः अकरोत् बुद्धत्वं
च प्राप्नोत् ।
(10) महात्मा खिष्टः दयालुः मुहम्मदः च जनानां दुःखविनाशाय एव स्वजीवने अपारं कष्टं सोढवन्तौ ।
सत्सङ्गतिः पर निबंध संस्कृत में
(2) सत्सङ्गतिः(Sangati)
सत्पुरुषाणां सङ्गतिः सत्सङ्गति कथ्यते। सज्जनानां सङ्गतिः सुखकरी भवति। सज्जनानाः सदैव समाजे आदर्शरूपेण स्वीक्रियन्ते। सत्सङ्गत्या जनः उन्नतिपदं प्राप्नोति। सत्सङ्गतिः धियः जाड्यं हरति, वाचि सत्यं सिञ्चति। पापं दूरी करोति, दिक्षुः च यशः तनोति ।
सत्सङ्गत्या नराणाम् अज्ञानं, पापं, अधर्मं च नश्यति। सत्सङ्गतिः नरस्य सर्वान् मनोरथान् पूरयति । सत्सङ्गतिः नरस्य सम्मानं वर्धयति । सत्सङ्गतिः नरस्य पापानि अपाकरोति । न केवलं मनुष्येषु अपितु जडवस्तुषु अपि सङ्गतेः स्पष्टः प्रभावः दृश्यते। धूपेन सह धूमः अपि सुगन्धितः भवति। अतः अस्माभिः सदा सत्सङ्गः कार्यः, कुसङ्गः च सर्वथा परित्याज्यः ।
मनुष्यः यादृशं सङ्गं प्राप्नोति तादृशी तस्य बुद्धिर्भवति । सत्सङ्गत्या मानवानां चरित्रनिर्माणं भवति तथा च “सतां हि सङ्गः सकलं प्रसूयते ।‘
सत्संगतिः पर निबंध 10 वाक्यों में
सत्संगतिः
अथवा सत्संगतिः कथय किम् न करोति पुंसाम्
(1) सज्जनपुरुषाणां संगतिः एव सत्संगतिः कथ्यते ।
(2) ये दुर्गुणान् त्यक्त्वा सद्गुणान् गृहणन्ति, ते सज्जनाः भवन्ति।
(3) यः मनुष्यः सज्जनैः सह वसति, सः सज्जनः जायते।
(4) यः मनुष्यः दुर्जनानां संगति करोति, सः दुर्जनः भवति।
(5) पारसपाषाणस्य स्पर्शन लौहः सुवर्णः भवति।
(6) मनुष्यः सभ्यतायाः संस्कृतेः च शिक्षाम् अपि सत्संगेन एव लभते ।
(7) सत्संगतेः महान् प्रभावः अस्ति।
(8) अस्माकं वेदशास्त्रेषु अपि सत्संगस्य महिमा वर्णितः अस्ति।
(9) सत्संगतिः मनुष्यस्य सर्वान् मनोरथान् पूरयति।
(10) वयं दुष्टानां संगम् त्यक्त्वा सज्जानानां संगम् कुर्याम्।
विद्या (विद्यायाः महत्त्वम्) एवं सदाचारः पर निबंध संस्कृत में