राष्ट्रियैकता (राष्ट्रीय एकता) एवं भारतीय कृषकः पर निबंध संस्कृत में – Rashtriyekta Avn Bhartiya Krishak Per Nibandh Sanskrit Mein

राष्ट्रियैकता (राष्ट्रीय एकता) एवं भारतीय कृषकः पर निबंध संस्कृत में – Rashtriyekta Avn Bhartiya Krishak Per Nibandh Sanskrit Mein

यह पर आपको राष्ट्रियैकता (राष्ट्रीय एकता) एवं भारतीय कृषकः पर निबंध दिया गया है|

प्रिय छात्र ! यह आपको पैराग्राफ में राष्ट्रियैकता (राष्ट्रीय एकता) एवं भारतीय कृषकः पर निबंध दिया गया है| अगर राष्ट्रियैकता (राष्ट्रीय एकता) के स्थान पर राष्ट्रीयता अखण्डता दिया गया हो तो, आप इसे ही लिख सकते है| Essay In Sanskrit

Chapter Name राष्ट्रियैकता (राष्ट्रीय एकता) एवं भारतीय कृषकः पर निबंध 
Part 3 Sanskrit Vyakaran
Board Name UP Board (UPMSP)
Topic Name राष्ट्रियैकता (राष्ट्रीय एकता) एवं भारतीय कृषकः पर निबंध संस्कृत में

राष्ट्रियैकता (राष्ट्रीय एकता) (Rashtriyekta )

विविध धर्म-भाषावलम्बिनां जनानां वासस्थानं राष्ट्र भवति। परन्तु धर्म-भाषा-वैविध्येऽपि एकस्मिन् राष्ट्रे वसन्तः जनाः अभिन्नाः एव भवन्ति । यथा एकस्मिन् गृहे वसन्तः बहवः जनाः पृथक् वस्त्राभूषणानि धारयन्ति पृथगेव चिन्तयन्ति च परं मूलतः ते एकस्यैव गृहस्यैव अङ्गानि भवन्ति, अतः अभिन्नाः एव तिष्ठन्ति ।

एवमेव वयं स्वराष्ट्रे वसन्तः पृथक् भाषा-भाषिणः। अत्र पृथक् धर्मावलम्बिनः निवसन्ति। पृथक् विचारानुयायिनः सन्तः अपि अभिन्नाः सन्ति। यतो हि भारतम् अस्माकं राष्ट्र वयं च अस्य राष्ट्रस्य नागरिकाः। राष्ट्र यदि सुरक्षितम् अस्ति तर्हि वयमपि निस्सन्देहं सुरक्षिताः। राष्ट्र यदि विकसितम् तर्हि अस्माकमपि विकासः सुनिश्चितः एव ।

अतः अस्माकं सर्वेषां भारतीयानाम् राष्ट्रियैकता प्रथमं कर्त्तव्यम् अस्ति। यद् राष्ट्रियैक्यस्य वाधकानि तत्त्वानि निवारयेम राष्ट्रियाम् एकतां च पोषयेम एतेनैव राष्ट्रस्य अस्माकं सर्वेषां च समुन्नतिः समृद्धिश्च सुनिश्चिता।

 

भारतीय कृषकः (Bhartiya Krishak )

यः कृषिं करोति सः कृषकः इति उच्यते। कृषि कर्मणि पशूनां विशेषं महत्त्वम् अस्ति। वृषभाः हलं शकटं च कर्षन्ति । गावः दुग्धं ददाति । तेषां गोमयेन खादं भवति यच्च अन्नोत्पादने सहायकं भवति। तस्मादेव कारणात् कृषकः भूमिं पशून् च भृशम् अर्चयति ।

पुरा कृषिः हलवृषभाश्रिता एव आसीत्। अद्य नवीनानि कृषियन्त्राणि निर्मितानि। येषां साहाय्येन अल्पेन कालेन विपुलं कार्यं सम्पद्यते। येषां साहाय्येन विपुलम् अन्नम् उत्पद्यते कृषकाः च समृद्धिं गच्छन्ति । नवीनानि कृषियन्त्राणि बहुमूल्यानि सन्ति। येन न सामान्यः अपितु मध्यमवर्गीयः अपि कृषकः एतानि यंन्त्राणि क्रेतुम् असमर्थः । अतः अद्यापि भारतीय कृषकः विपुलं श्रमं कृत्वापि अभावग्रस्तः एव अस्ति।

 

अस्माकं विद्यालयः एवं प्रियः अध्यापकः (आदर्शः अध्यापकः) पर निबंध संस्कृत में

 

 

error: Copyright Content !!
Scroll to Top