विजयादशमी (दशहरा) एवं भारतीया संस्कृतिः पर निबंध संस्कृत में – Vijayadashmi (Dashara) Avn Bhartiya Sanskriti Per Nibandh Sanskrit Mein

विजयादशमी (दशहरा) एवं भारतीया संस्कृतिः पर निबंध संस्कृत में – Vijayadashmi (Dashara) Avn Bhartiya Sanskriti Per Nibandh Sanskrit Mein

यह पर आपको विजयादशमी (दशहरा) एवं भारतीया संस्कृतिः पर निबंध दिया गया है|

प्रिय छात्र ! यह आपको पैराग्राफ में विजयादशमी (दशहरा)  एवं भारतीया संस्कृतिः पर निबंध दिया गया है| Essay In Sanskrit

Chapter Name विजयादशमी (दशहरा) एवं भारतीया संस्कृतिः पर निबंध 
Part 3 Sanskrit Vyakaran
Board Name UP Board (UPMSP)
Topic Name विजयादशमी (दशहरा) एवं भारतीया संस्कृतिः पर निबंध संस्कृत में

विजयादशमी (दशहरा) ( Vijayadashmi (Dashara) )

भारतवर्षे अनेके विविधाश्च उत्सवाः प्रचलन्ति। अयमुत्सवः आश्विनमासस्य शुक्लपक्षे दशम्यां तिथौ भवति। अस्मिन् समये वर्षर्तुः समाप्तिमुपयाति शरच्चागच्छति। एवमनुश्रूयते यत् दशरथपुत्रेण श्रीरामचन्द्रेण अस्मिन्नेव दिने राक्षसराजरावणस्य विनाशाय लङ्कायाम् आक्रमणम् कृतम्। पुरा क्षत्रिया अस्मिन्नेव दिने शस्त्राणां पूजां विधाय युद्धार्थ प्रस्थानम् अकुर्वन्। इदमपि कथ्यते यत् महादेव्या भगवत्या काल्या अस्मिन्नेव दिने असुरार्णा विनाशः कृतः।

इममुत्सवम् प्राधान्येन क्षत्रियाः अभिनन्दन्ति। पुरा अस्मिन्नेव दिने राजगृहेषु महान् उत्सवः अभवत्। यद्यपि सम्प्रति राज्ञां नामशेषमेव जातं तत्र उत्सवः सम्पद्यते। क्षत्रियवर्णम् अन्तरेण अन्ये वर्णा अपि इममुत्सवं सोल्लासम् अभिनन्दन्ति। क्षत्रियाः ब्राह्मणाः वैश्याः शूद्राश्च सर्व एव अस्मिन् उत्सवे उल्लसन्ति।

अस्मिन् अवसरे समस्ते भारते ग्रामे ग्रामे, नगरे नगरे च रामलीलायाः प्रदर्शनं भवति। असंख्याः जनाः आबालवृद्धाः रामलीलोत्सवं द्रुष्टुम् गच्छन्ति तत्र रावणवधं, तद्दहनं च दृष्ट्वा आमोदन्ते। असत्ये सत्यस्य विजयः अस्योत्सवस्य प्रधानः सन्देशः ।

 

भारतीया संस्कृतिः (Bhartiya Sanskriti)

संस्करणं, परिष्करणं चेतसः आत्मनोः वा इति संस्कृतिः कथ्यते। संस्कृतिः मानव मनसोऽज्ञानं दूरी करोति। चित्तभयमपहरति, अविवेकान्धकारम् अपनयति, ज्ञानज्योतिप्रकाशयति, शान्तिमादधाति, कल्याणं विस्तारयति, ज्ञानं विकासयति च। किम्बहुना संस्कृतिमानवस्य सर्वविधम् अकल्याणं दूरीकृत्य तस्मिन् कल्याणं आदधाति।

सर्वेषां राष्ट्राणां स्वकीया संस्कृतिः भवति। अस्माकं भारतराष्ट्रस्यापि स्वीकीया संस्कृतिः अस्ति, या भारतीया संस्कृतिः कथ्यते। इयं संस्कृतिः विश्वस्त प्राचीनतमासु संस्कृतिषु प्रधानतमा अस्ति।

अस्यां संस्कृतौ धार्मिकभावनायाः प्रचुरता अस्ति। जीवनस्य प्रतिक्षेत्रे धर्मस्य विधानम् अस्ति। भोजन व्यापारे राजनीती व्यवहारे, पठने, शयने, किम्बहुना सर्वास्वपि जीवनचर्यासु धर्मस्यैव विधानं दृश्यते। अस्यां संस्कृतौ, सर्वत्र आध्यात्मिकत्वं दृश्यते। भौतिक लिप्सां त्यक्त्वा आत्मज्ञानं कृत्वा मोक्ष प्राप्तिः एष भारतीयानां परमं लक्ष्यम्।

 

क्रिकेट-क्रीडनम एवं दीपावलिः पर निबंध संस्कृत में

error: Copyright Content !!
Scroll to Top